|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.33. अध्यायः 033
अथ पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासेन गान्धारींप्रति समरहतानां दुर्योधनादीनां सर्वेषां रात्रौ प्रदर्शनप्रतिज्ञानपूर्वकं धृतराष्ट्रादीनां विशिष्य गन्धर्वाद्यंशत्वकथनम्॥ 1 ॥ धृतराष्ट्रादिभिर्व्यासवचनाद्गङ्गातीरमेत्य बन्धुदर्शनौत्कण्ठ्येन कृच्छ्रादहर्यापनम्। 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
व्यास उवाच।
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्स्वकान्गणान्।
वधूश्च पतिभिः सार्धं निशि सुप्तोस्थिता इव॥ 16-33-1(98054)
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी।
द्रौपदी पञ्चपुत्रांश्च पितॄन्भ्रातॄंस्तथैव च॥ 16-33-2(98055)
पूर्वमेवैष हृदये व्यवसायोऽभकवन्मम।
यदाऽस्मि चोदितो राज्ञा भवत्या पृथयैव च॥ 16-33-3(98056)
न ते शोच्या महात्मानः सर्व एव नरर्षभाः।
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः॥ 16-33-4(98057)
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते।
अवतेरुस्ततः सर्वे देवा भागैर्महीतलम्॥ 16-33-5(98058)
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः।
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोपि च॥ 16-33-6(98059)
देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः।
ते एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे॥ 16-33-7(98060)
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः।
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव॥ 16-33-8(98061)
पाण्डुं मरुद्गणाद्विद्धि विशिष्टतममच्युतम्।
धर्मस्यांशोऽभवत्क्षत्ता राजा चैव युधिष्ठिरः॥ 16-33-9(98062)
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं नृपम्।
दुःशासनादीन्विद्धि त्वं राक्षसान्शुभदर्शने॥ 16-33-10(98063)
मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम्।
विद्धिं त्वं तु नरमृषिमिमं पार्थं धनंजयम्।
नारायणं हृषीकेशमश्विनौ यमजौ तथा॥ 16-33-11(98064)
द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम्।
लोकांश्च तापयानं वै कर्णं विद्धि पृथासुतम्॥ 16-33-12(98065)
यः स वैरार्थमुद्भूतः संघर्षजननस्कतथा।
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने॥ 16-33-13(98066)
यश्च पाण्डवदायादो हतः षङ्मिर्महारथैः।
स सोम इह सौभद्रो योगादेवाभवद्द्विधा॥ 16-33-14(98067)
द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात्।
अग्रेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्॥ 16-33-15(98068)
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्।
गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः॥ 16-33-16(98069)
एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि।
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने॥ 16-33-17(98070)
यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम्।
तदद्य व्यपनेष्यामि परलोककृताद्भयात्॥ 16-33-18(98071)
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति।
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्तत्र संयुगे॥ 16-33-19(98072)
वैशम्पायन उवाच। 16-33-20x(8060)
इति व्यासस्य वचनं श्रुत्वा सर्वा जनस्तदा।
महता सिंहनादेन गङ्गामभिमुखो ययौ॥ 16-33-20(98073)
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः।
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः॥ 16-33-21(98074)
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः।
निवासमकरोत्सर्वो यथाप्रीति यथासुखम्॥ 16-33-22(98075)
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः।
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः॥ 16-33-23(98076)
जगाम तदहस्चापि तेषां वर्षशतं यथा।
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्॥ 16-33-24(98077)
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः।
ततः कृताभिषेकास्ते नैशं कर्म समाचरन्॥ ॥ 16-33-25(98078)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|